हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Garuda Ashtottara Shatanama Stotram – श्री गरुडाष्टोत्तरशतनाम स्तोत्रम्


श्रीदेव्युवाच ।
देवदेव महादेव सर्वज्ञ करुणानिधे ।
श्रोतुमिच्छामि तार्क्ष्यस्य नाम्नामष्टोत्तरं शतम् ।

ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि गरुडस्य महात्मनः ।
नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ॥

अस्य श्रीगरुडनामाष्टोत्तरशतमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः गरुडो देवता प्रणवो बीजं विद्या शक्तिः वेदादिः कीलकं पक्षिराजप्रीत्यर्थे जपे विनियोगः ।

ध्यानम् ।
अमृतकलशहस्तं कान्तिसम्पूर्णदेहं
सकलविबुधवन्द्यं वेदशास्त्रैरचिन्त्यम् ।
कनकरुचिरपक्षोद्धूयमानाण्डगोलं
सकलविषविनाशं चिन्तयेत्पक्षिराजम् ॥

स्तोत्रम् ।
वैनतेयः खगपतिः काश्यपेयो महाबलः ।
तप्तकाञ्चनवर्णाभः सुपर्णो हरिवाहनः ॥ १ ॥

छन्दोमयो महातेजाः महोत्साहो महाबलः ।
ब्रह्मण्यो विष्णुभक्तश्च कुन्देन्दुधवलाननः ॥ २ ॥

चक्रपाणिधरः श्रीमान् नागारिर्नागभूषणः ।
विद्वन्मयो विशेषज्ञः विद्यानिधिरनामयः ॥ ३ ॥

भूतिदो भुवनत्राता भयहा भक्तवत्सलः ।
सप्तछन्दोमयः पक्षिः सुरासुरसुपूजितः ॥ ४ ॥

भुजङ्गभुक् कच्छपाशी दैत्यहन्ताऽरुणानुजः ।
निगमात्मा निराधारो निस्त्रैगुण्यो निरञ्जनः ॥ ५ ॥

निर्विकल्पः परञ्ज्योतिः परात्परतरः परः ।
शुभाङ्गः शुभदः शूरः सूक्ष्मरूपी बृहत्तनुः ॥ ६ ॥

विषाशी विजितात्मा च विजयो जयवर्धनः ।
अजास्यो जगदीशश्च जनार्दनमहाध्वजः ॥ ७ ॥

घनसन्तापविच्छेत्ता जरामरणवर्जितः ।
कल्याणदः कलातीतः कलाधरसमप्रभः ॥ ८ ॥

सोमपः सुरसङ्घेशः यज्ञाङ्गो यज्ञभूषणः ।
वज्राङ्गो वरदो वन्द्यो वायुवेगो वरप्रदः ॥ ९ ॥

महाजवो विदारी च मन्मथप्रियबान्धवः ।
यजुर्नामानुष्टभजः मारकोऽसुरभञ्जनः ॥ १० ॥

कालज्ञः कमलेष्टश्च कलिदोषनिवारणः ।
स्तोमात्मा च त्रिवृन्मूर्धा भूमा गायत्रिलोचनः ॥ ११ ॥

सामगानरतः स्रग्वी स्वच्छन्दगतिरग्रणीः ।
विनतानन्दनः श्रीमान् विजितारातिसङ्कुलः ॥ १२ ॥

पतद्वरिष्ठः सर्वेशः पापहा पापमोचकः ।
अमृतांशोऽमृतवपुः आनन्दगतिरग्रणीः ॥ १३ ॥

सुधाकुम्भधरः श्रीमान् दुर्धरोऽसुरभञ्जनः ।
अग्रिजिज्जयगोपश्च जगदाह्लादकारकः ॥ १४ ॥

गरुडो भगवान् स्तोत्रः स्तोभस्स्वर्णवपु स्वराट् ।
विद्युन्निभो विशालाङ्गो विनतादास्यमोचकः ॥ १५ ॥

इतीदं परमं गुह्यं गरुडस्य महात्मनः ।
नाम्नामष्टोत्तरं पुण्यं पवित्रं पापनाशनम् ॥ १६ ॥

गीयमानं मया गीतं विष्णुना समुदीरितम् ।
सर्वज्ञत्वं मनोज्ञत्वं कामरूपत्वमेव वा ॥ १७ ॥

अमरत्वं ऋषित्वं वा गन्धर्वत्वमथापि वा ।
अणिमादिगुणं चैव अष्टभोगं तथा भवेत् ॥ १८ ॥

इदं तु दिव्यं परमं रहस्यं
सदा सुजप्यं परमत्मयोगिभिः ।
मनोहरं हर्षकरं सुखप्रदं
फलप्रदं मोक्षफलप्रदं च ॥ १९ ॥

इति ब्रह्माण्डपुराणान्तर्गतं गरुडाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ।


Sri Vishnu Stotras – श्री विष्णु स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.